वांछित मन्त्र चुनें
आर्चिक को चुनें

तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म् । उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥३८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥३८३॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । ते꣣ । म꣡द꣢꣯म् । गृ꣣णीमसि । वृ꣡ष꣢꣯णम् । पृ꣣क्षु꣢ । सा꣣सहि꣢म् । उ꣣ । लोककृत्नु꣢म् । लो꣣क । कृत्नु꣢म् । अ꣣द्रिवः । अ । द्रिवः । हरिश्रि꣡य꣢म् । ह꣣रि । श्रि꣡य꣢꣯म् ॥३८३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 383 | (कौथोम) 4 » 2 » 5 » 3 | (रानायाणीय) 4 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर के गुण-कर्मों का वर्णन है।

पदार्थान्वयभाषाः -

हे (अद्रिवः) अविनश्वर आत्मा से अनुप्राणित मानव ! (ते) तेरे लिए (तम्) उस प्रसिद्ध, (मदम्) आनन्ददाता, (वृषणम्) अन्न, धन, जल, बल, प्रकाश, विद्या आदि की वर्षा करनेवाले, (पृक्षु) आन्तरिक और बाह्य देवासुर-संग्रामों में (सासहिम्) अतिशय रूप से शत्रुओं को परास्त करनेवाले, (उ) और (लोककृत्नुम्) पृथिवी, सूर्य, चन्द्र आदि लोकों के रचयिता अथवा विवेक का आलोक प्रदान करनेवाले, (हरिश्रियम्) हरणशील अग्नि, वायु, सूर्य, चन्द्र, प्राण, विद्युत् आदियों में शोभा तथा क्रियाशक्ति को उत्पन्न करनेवाले परमेश्वर का, हम (गृणीमसि) उपदेश करते हैं ॥३॥

भावार्थभाषाः -

विद्वानों को चाहिए कि वे विविध पदार्थों और सद्गुणों के वर्षक, सुखदाता, संग्रामों में विजय दिलानेवाले, लोकलोकान्तरों के रचयिता, विवेकप्रदाता, सब पदार्थों में सौन्दर्य एवं शोभा के आधानकर्ता परमेश्वर का प्रजाजनों के कल्याणार्थ उपदेश किया करें, जिससे वे उसकी महिमा को जानकर, उसकी पूजा कर, उससे प्रेरणा लेकर पुरुषार्थी बनें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य गुणकर्माण्याह।

पदार्थान्वयभाषाः -

हे (अद्रिवः) अविनश्वरेण जीवात्मनाऽनुप्राणित मानव ! पदपाठे सर्वत्र अ-द्रि इति पाठात् न दीर्यते विनश्यति इत्यद्रिः अमर्त्यो जीवात्मा, तद्वान् अद्रिवा, वनिप् प्रत्ययः, सम्बुद्धौ अद्रिवः इति। (ते) तुभ्यम् (तम्) प्रसिद्धम् (मदम्) आनन्दयितारम्, (वृषणम्) अन्नधनजलबलप्रकाशविद्यादीनां वर्षकम् (पृक्षु२) आभ्यन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। पृच्यन्ते संसृज्यन्ते परस्परं प्रहाराय शत्रवो यत्र ताः पृचः संग्रामाः तासु, पृची सम्पर्के धातोः क्विपि रूपम्। (सासहिम्) अतिशयेन शत्रूणाम् अभिभवितारम्। सहतेर्यङन्तात् ‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ। अ० ३।२।१७१’ वा० इति किः प्रत्ययः। (उ३) अपि च (लोककृत्नुम्) पृथिवीसूर्यचन्द्रदीनां लोकानां कर्तारम्, यद्वा विवेकालोकप्रदम्, (हरिश्रियम्) हरिषु हरणशीलेषु अग्निवायुसूर्यचन्द्रप्राणविद्युदादिषु श्रीः शोभा क्रियाशक्तिर्वा यस्मात् तम् इन्द्रं परमेश्वरं, वयम् (गृणीमसि) गृणीमः उपदिशामः स्तुमः। गॄ शब्दे, क्र्यादिः ॥३॥

भावार्थभाषाः -

विद्वद्भिर्विविधपदार्थानां सद्गुणानां च वर्षकः, सुखप्रदः, संग्रामेषु विजयप्रदाता, लोकलोकान्तराणां रचयिता, विवेकप्रदः, सर्वेषु पदार्थेषु श्रियो निधाता परमेश्वरः प्रजाजनानां कल्याणार्थमुपदेष्टव्यो, येन ते तन्महिमानं विज्ञाय तं सम्पूज्य ततः प्रेरणां गृहीत्वा पुरुषार्थिनो भवेयुः ॥३॥

टिप्पणी: १. ऋ० ८।१५।४, अथ० २०।६१।१ उभयत्र ‘पृक्षु’ इत्यस्य स्थाने ‘पृत्सु’ इति पाठः। साम० ८८०। २. पृक्षु वैरिसम्पर्कजनितेषु संग्रामेषु। अत एव बह्वृचाः ‘पृत्सु’ इति पठन्ति। पृत्सु, समत्सु इति संग्रामनामसु (निघं० २।१७) पठितम्—इति सा०। ३. उ शब्दः सर्वेषां समुच्चये पादपूरणे वा—इति सा०। उलोककृत्नुम्, लोक एव उलोकः, लोककृतं यजमानानाम्—इति भ०। परं पदकारेण उ शब्दः पृथगेव दर्शितः।